वांछित मन्त्र चुनें

स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्य॑म् । वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा॑यमी॒षे ॥

अंग्रेज़ी लिप्यंतरण

samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam | vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe ||

पद पाठ

स॒मा॒नम् । अ॒स्मै॒ । अन॑पऽवृत् । अ॒र्च॒ । क्ष्म॒या । दि॒वः । अस॑मम् । ब्रह्म॑ । नव्य॑म् । वि । यः । पृ॒ष्ठाऽइ॑व । जनि॑मानि । अ॒र्यः । इन्द्रः॑ । चि॒काय॑ । न । सखा॑यम् । ई॒षे ॥ १०.८९.३

ऋग्वेद » मण्डल:10» सूक्त:89» मन्त्र:3 | अष्टक:8» अध्याय:4» वर्ग:14» मन्त्र:3 | मण्डल:10» अनुवाक:7» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो (इन्द्रः) ऐश्वर्यवान् परमात्मा (अर्यः) सारे जगत् का स्वामी (पृष्ठा-इव जनिमानि) जायमान जीवात्माओं को (वि चिकाय) विशेषरूप से जानता है (सखायं न-ईषते) वह अपने उपासक सखा को हिंसित नहीं करता है (ब्रह्म) वह ब्रह्म नाम से प्रसिद्ध है (नव्यम्) वह ब्रह्म स्तुति करने योग्य है (समानम्) सबके लिये समान है निष्पक्ष है (अनपवृत्) पृथक् नहीं किन्तु सर्वान्तर्यामी है (क्ष्मया दिवः-असमम्) पृथिवी से द्युलोक से समता रखनेवाला-एकदेशी नहीं है (अस्मै) इसके लिये (अर्च) स्तुति कर ॥३॥
भावार्थभाषाः - परमात्मा जगत् का स्वामी महान् आत्माओं को जाननेवाला सर्वान्तर्यामी निष्पक्ष है, उसकी स्तुति करनी चाहिए ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-इन्द्रः-अर्यः) य ऐश्वर्यवान् सर्वस्य जगतः स्वामी (पृष्ठा इव जनिमानि वि चिकाय) आत्मनः जायमानान् “आत्मा वै पृष्ठानि” [को० २५।१२] “इवोऽपि दृश्यते” [निरु० १।११] इति पदपूरण इव शब्दः विजानाति (न सखायम्-ईषते) स सखायमुपासकं, न हिनस्ति ‘ईष गतिहिंसादर्शनेषु” [भ्वादि०] (ब्रह्म) ‘ब्रह्म’ इति नामतः प्रसिद्धं (नव्यम्) स्तुतियोग्यम् “णु स्तुतौ” [अदादि०] (समानम्) सर्वेभ्यः समानं निष्पक्षं (अनपवृत्) न पृथग्वर्तमानं सर्वान्तर्यामि (क्ष्मया-दिवः-असमम्) द्यावापृथिव्योर्न सममपि तु ततोऽतिमहदस्ति (अस्मै) अस्मै ब्रह्मणे (अर्च) स्तवनं कुरु ॥३॥